International Seminar




त्रिदिवसीया अन्ताराष्ट्रिया संगोष्ठी

वाक्यार्थ-स्पर्धा


वाक्यार्थ-स्पर्धार्थम् अत्र पञ्जीकरणं कुर्वन्तु

अस्यैव हायनस्य फेब्रवरि-मासस्य १३ दिनाङ्कतः १५ दिनाङ्गपर्यन्तं प्रयागराजस्य “गङ्गानाथ झा”-परिसरे “पाणिनीयव्याकरणम्, अस्यानुप्रयोगश्च” इति शीर्षकान्विता त्रिदिवसीया अन्ताराष्ट्रिया संगोष्ठी, केन्दीय-संस्कृत-विश्वविद्यालयः, “गङ्गानाथ झा”-परिसरः, कर्नाटक-संस्कृत-विश्वविद्यालयः इत्येताभ्यां सहयोगेन समायोजिता इति सर्वेषां विदितविषय एव ।

तत्कृते पत्रिकाः समर्पयितुं भागं ग्रहीतुं च अत्र पञ्जीकरणं कुर्वन्तु – https://conf22.sambhasha.ksu.ac.in

सङ्गोष्ठ्याः अङ्गत्वेन व्याकरण-विद्वद्गोष्ठी १३ तमे दिनाङ्के सायम् आयोक्ष्यते, यत्र ज्येष्ठानां व्याकरणविदुषां विद्वत्पूर्णा व्याकरणसम्बद्धविषयप्रस्तुतिर्भविष्यति ।

एवमेव अपरेद्युः १४/२/२०२३ तमे दिनाङ्के सायं शास्त्राध्ययने छात्रान् प्रोत्साहयितुं व्याकरणच्छात्राणां कृते वाक्यार्थस्पर्धा अपि सञ्चाल्यते । तत्र प्रथमपुरस्कारत्वेन ५००० रूप्यकाणि, द्वितीयपुरस्कारत्वेन ३००० रूप्यकाणि, तृतीयपुरस्कारत्वेन २००० रूप्यकाणीति धनराशिः विजेतॄणां छात्राणां कृते प्रदास्यते । स्पर्धालूनां कृते गमनागमनव्ययः (बस्-यानव्ययः, रेलयानस्य 3AC व्ययः वा) दीयते । पञ्जीकरणपत्रिकामवलोक्य चितानां २० छात्राणां कृते भागग्रहणार्थमवकाशः कल्प्यते ।

स्पर्धानियमाः इत्थं भवन्ति –
  • १. संस्कृतविश्वविद्यालयेषु /पारम्परिकसंस्कृतशिक्षणसंस्थासु /गुरुकुले विद्यावारिधौ आचार्य/तत्समकक्षायाम् कस्यचिद्विदुषः सन्निधौ अधीयानाः छात्राः भागं ग्रहीतुमर्हन्ति । वयोमितिस्तावत् २० तः ३० वर्षाणि यावत् ।
  • २. व्याकरणशास्त्रसम्बद्धे स्वाभीष्टे कस्मिंश्चिदपि विषये दशनिमेषं यावत् वाक्यार्थं कुर्यात् ।
  • ३. वाक्यार्थस्य उपस्थापनानन्तरं निमेषद्वयं यावत् प्रश्नोत्तरं भविष्यति ।
  • ४. आहत्य एकस्य स्पर्धालोः कृते द्वादशनिमेषात्मकः कालावकाशः दीयते ।
  • ५. तत्र विषयप्रस्तुतेः – विषयव्याप्तेश्च ३० अङ्काः, भाषासौष्ठवस्य कृते १० अङ्काः, प्रश्नोत्तरस्य कृते १० अङ्काः इत्याहत्य ५० अङ्काः निर्दिष्टाः भवन्ति ।
एतादृश्यां व्याकरण-सङ्गोष्ठ्यां यूयमपि भागं गृह्णीध्वमिति वयं प्रार्थयामहे ।

वाक्यार्थ-स्पर्धार्थम् अत्र पञ्जीकरणं कुर्वन्तु

सम्पर्कसंख्या – 9481904228 – (Dr Archana Karanth)